Srimad Valmiki Ramayanam

Balakanda Sarga 49

Story of Ahalya ( contd.)!

बालकांड
एकोनपंचाशस्सर्गः
( अहल्या शाप विमुक्तिः )

अफलस्तु तत श्सक्रो देवान् अग्निपुरोधसः ।
अब्रवीत् त्रस्तवदनः सर्षिसंघान् सचारणान् ॥

स॥ ततः अफलस्तु शक्रः त्रस्तवदनः स ऋषिसंघान् स चारणान् देवान् पुरोधसः अग्निं अब्रवीत्.

Then crest fallen Indra who lost his testicles spoke to Agni and Devas along with the legion of sages and Charanas.

कुर्वता तपसो विघ्नं गौतमस्य महात्मनः ।
क्रोधमुत्पाद्य हि मया सुरकार्यं इदं कृतम्॥

स॥ महात्मनः क्रोधमुत्पाज्य गौतमस्य तपसो विघ्नं कुर्वत । मया इदं सुरकार्यं कृतं ।

"Making him angry I have disturbed the penance of the venerable sage. I have done this work for Devas".

अफलोsस्मि कृतस्तेन क्रोधात् सा च निराकृता ।
शापमोक्षेण महता तपोsस्यापहतं मया ॥

स॥ तेन क्रोधात् अफलोस्मि । सा ( अहल्याच) निराकृता । मया शाप मोक्षेण अस्य महता तपः अपहुतं ।

"Because of his anger I have lost my testicles. She became one without a form. Because of the curse the power of the penance was destroyed".

तस्मात् सुरवरास्सर्वे सर्षिसंघा स्सचारणाः ।
सुरसाह्यकरं सर्वे सफलं कर्तुमर्हथ ॥

स॥ हे सुरवराः ! तस्मात् सर्वे स ऋषिसंघाः स चारणाः सुरसाह्यकरं सफलं कर्तुं अर्हथ ।

"Hence Oh best of Suras ! you along with the legions of sages and Charanas should make me one having testicles".

शतक्रतोर्वचश्श्रुत्वा देवास्साग्निपुरोगमाः ।
पितृदेवानुपेत्याहुः सह सर्वैर्मरुद्गणैः ॥

स॥ शतक्रतोः वचनं श्रुत्वा अग्नि पुरोगमाःस मरुद्गणैः सह पितृदेवान् अनुपेत्य देवाः आहुहुः ।

Hearing those words of Indra , the Devas along with Agni and legions of Maruts went to the PitruDevas.

अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः ।
मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छत ॥

स॥ शक्रो ह्य वृषणः कृतः । अयं मेषः स वृषणः । मेषस्य वृषणौ गृह्य शक्रयाशु प्रयच्छत ।

"Indra has no testicles. This goat has testicles. The testicles of the goat may be given to Indra".

अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति ।
भवतां हर्षणार्थाय ये च दास्यंति मानवाः ॥

स॥ भवतां हर्षणार्थाय मानवाः ये दास्यंति । मेषः अफलस्तु कृतो अपि परां तुष्टिं प्रदास्यति च।

"For your pleasure the people offer this to us. The goat even without testicles satisfies you".

अग्नेस्तु वचनं श्रुत्वा पितृदेवास्समागताः ।
उत्पाट्य मेष वृषणौ सहस्राक्षे न्यवेशयन् ॥

स॥ अग्नेस्तु वचनं श्रुत्वा समागताः पित्रुदेवाः मेष वृषणौ उत्पाट्य सहस्राक्षे न्यवेशयन् ।

'Hearing those words of Agni, the Pitru Devas who gathered there gave the testicles of the goat to Indra'.

तदा प्रभृति काकुत् स्थ पितृदेवाः समागताः ।
अफलान् भुजंते मेषान् फलैस्तेषाम् अयोजयन् ॥

स॥ हे काकुत् स्थः ! तदाप्रभृति समागताः पितृदेवाः अफलान् मेषां भुजंते । तेषां फलैः अयोजयन् ।

'Oh Kakustha ! From that time the PitruDevas accepted the offering of goats without testicles and providing benefits for the offerings'.

इंद्रस्तु मेष वृषणः तदा प्रभृति राघव ।
गौतमस्य प्रभावेन तपसश्च महात्मनः ॥
स॥ हे राघव ! तदाप्रभृति महात्मनः तपसश्च गौतमस्य प्रभावेन इंद्रस्तु मेष वृषणः ( भवति) ।

'Oh Raghava ! from that time Indra is called the "Meshavrushana", the one with testicles of a goat'.

तदागच्छ महतेज आश्रमं पुण्यकर्मणः ।
तारयैनां महाभागाम् अहल्यां देवरूपिणीम्॥

स॥ हे महातेज ! तदा पुण्यकर्मणः आश्रमं आगच्छ। एनां महाभागाम् देवरूपिणीम् अहल्यां तारय ।

'Oh Mahateja ! So you must come to the sacred hermitage. You must free Ahalya from her curse'.

विशामित्र वचश्श्रुत्वा राघवः सह लक्ष्मणः ।
विश्वामित्रं पुरस्कृत्य तमाश्रम मथाविशत् ॥

स॥ विश्वामित्रस्य वचः श्रुत्वा राघवः स लक्ष्मणः विश्वामित्रं पुरश्कृत्य् तं आश्रमं अथ आविशत् ।

Hearing those words of sage Viswamitra , Rama and Lakshmana entered the hermitage with Viswamitra leading them.

ददर्श च महाभागां तपसा द्योतितप्रभाम् ।
लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरैः ॥

स॥ ( तदा) लोकैरपि सुरासुरैः दुर्निरीक्ष्यां तपसा द्योतित प्रभां महाभागां ददर्श

Then they saw that lady who is invisible to the people as well as Suras and Asuras, who is literally shining with the brilliance of her own penance.

प्रयत्ना न्निर्मितां धात्रा दिव्यां माया मयी मिव।
सतुषारवृतां साभ्रां पूर्णचंद्र प्रभामिव ॥
( धूमेनापि परीतांगीं दीप्तां अग्निशिखामिव )॥

स॥ माया मयीं इव पूर्णचंद्र प्रभां इव स तुषारवृतां धात्रा प्रयत्नात् निर्मितां ( तां ददर्श)

Being invisible she is like Maya. She is like the shining full moon covered by the water laden clouds. She is specially built by the efforts of the creator.

मध्येंभसो दुरादर्षां दीप्तां सूर्यप्रभामिव ।
सा हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह ॥
त्रयाणमपि लोकानां यावद्रामस्य दर्शनम् ।
शापस्यांतमुपागम्य तेषां दर्शन मागता ॥

स॥ अंभसे मध्ये दीप्तां सूर्य प्रभाम् इव सा गौतम वाक्येन त्रयाणामपि लोकानां दुर्निरीक्ष्या बभूव ह । यावत् रामस्य दर्शनं शापस्य अंत मुपागम्य तेषां दर्शन म आगता ।

( She was) Like the Sun's brilliance seen in the water. She was invisible to all the three worlds due to Gautama's curse. With the Darshan of Rama she became free of the curse and became visible.

राघवौ तु ततः तस्याः पादौ जगृहतु तदा ।
स्मरंति गौतम वचः प्रतिजग्राह सा च तौ ॥

स॥ ततः राघवौ तस्याः पादौ जगृहतु । तदा सा च गौतमः वचः स्मरंति प्रतिजग्राह ।

Rama and Lakshmana then touched her feet. She too remembering Gautama's words touched their feet.

पादमर्घ्यं तथातिथ्यं चकार सुसमाहितः ।
प्रतिजग्राह काकुत् स्थ विधि दृष्टेन कर्मणा ॥

स॥ सुसमाहिता पाद्यं अर्घ्यं तथा आतिथ्यं चकार ! काकुत् स्थोकर्मणा विथि दृष्टेन प्रतिजग्राह ।
She then offered the traditional respects by offering water etc . Rama and Lakshman too received them as per practice.

पुष्पवृष्टि र्महत्यासीत् देवदुंदुभिनिस्स्वनैः ।
गंधर्वाप्सरसां चापि महानासीत् समागमः ॥

स॥ महत् पुष्पवृष्ठिः आसीत् । गंधर्व अप्सरसांच अपि देव दुंदुभि निस्स्वनैः समागमः महान् आसीत् ।

There was a great rain of flowers. The Gandharvas, Apsarasas joined Devas playing the kettle drums, in heralding the events.

साधु साध्विति देवास्तां अहल्यां समपूजयन् ।
तपोबलविशुद्धांगीं गौतमस्य वशानुगाम् ॥

स॥ तपोबल विशुद्धांगीं गौतमस्य वशानुगां तां अहल्यां देवाः साधु साधु इति समपूजयन् ।

Ahalya who was purified by the power of her penance, who has now joined Gautama
, was worshipped by all Devas saying "good" "good".

गौतमोपि महातेजा अहल्यासहितस्सुखी।
रामं संपूज्य विधिवत् तपस्तेपे महातपाः ॥

स॥ महातेजा गौतमः अपि अहल्या सहित रामं विधिवत् संपूज्य स्सुखी महातपाः तेपे ।

The great Gautama too worshipped Rama along with Ahalya as per practice and then went on to do his penance.

रामः अपि परमां पूजां गौतमस्य महामुनेः ।
सकाशाद्विधिवत् प्राप्य जगाम मिथिलां ततः ॥

स॥ रामः अपि सकाशात् विधिवत् महामुनेः गौतमस्य पूजां प्राप्य ततः मिथिलां जगाम ।

Rama too having received the worship from venerable Gautama as prescribed , then proceeded to Mithila

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकांडे एकोनपंचाशस्सर्गः ॥
समाप्तं ॥

Thus ends Sarga forty nine of Balakanda in Valmiki Ramayan

|| om tat sat ||